top of page

जगन्मङ्गलाप्रातःस्मरणस्तोत्रम् | Jaganmangala pratah smaran stotram

जगन्मङ्गला प्रातःस्मरणस्तोत्रम् 

गणेशसूरिचन्द्रात्रेयविरचितम्

प्रातः स्मरामि गिरिजां नवचम्पकाभां
कौसुम्भरागरुचिरं वसनं वसानाम् ।
वीणानिनादकलनाकुललोलमौलि-
मङ्कस्थकीरकलनादकृतोऽनुमोदम् ॥ १॥

प्रातर्नमामि भवभामिनि तेऽङ्घ्रियुग्मं
सद्यःप्रफुल्लनदकोकनदानुकारि ।
भक्तिप्रणम्रदिविषड्गणमौलिकोटि-
व्यासक्तहीररुचिभिः परिदीप्यमानम् ॥ २॥

दिव्यप्रभं  कनकनिर्मितरत्नचित्र -
मञ्जीररश्मिललितं घनगूढवृत्तम्  ।
गुल्फद्वयं जननि ते परिभावयामि
प्रातः प्रबुद्धनवनीरजमुञ्जुलश्रीः ॥ ३॥

जङ्घे शुभे तुहिनाद्रिधरजे त्वदीये  
वृत्तानुपूर्वरचिते स्मरभूमिभर्तुः ।
मत्तद्विपेन्द्रकरबन्धुरतापहारे
प्रातः स्मृते सकलसम्पदमाशु दत्ताम् ॥ ४॥

कामस्य शम्भुवशकारि महौषधीभिः
संपूरितं चटुलसंपुटयुग्मलम्बम् ॥

जानुद्वयं कनकनिर्मितदर्पणश्रीः
प्रातस्तुषारगिरिजे तव चिन्तयामि ॥ ५॥

रम्भाभिरूप्यमदहारिनवप्रकारौ
भक्ताघपर्वतपराकृतिवज्रमारौ ।
ध्यायामि तेऽम्ब प्रतिनायकपोषकारा-
वूरुप्…
bottom of page